|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.7. अध्यायः 007
Mahabharata - Sabha Parva - Chapter Topics
इन्द्रसभावर्णनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
नारद उवाच॥
शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता।
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा॥ 2-7-1(11566)
विस्तीर्णा योजनशतं शतमध्यर्धमायता।
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता। 2-7-2(11567)
जराशोकक्लमापेता निरातङ्का शिवा शुभा।
वेश्मासनवती रम्या दिव्यपादपशोभिता॥ 2-7-3(11568)
तस्यां देवेश्वरः पार्थ सभायां परमासने।
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत। 2-7-4(11569)
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः।
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह॥ 2-7-5(11570)
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्।
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः॥ 2-7-6(11571)
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा।
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः॥ 2-7-7(11572)
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः।
उपासते महात्मान देवराजमरिन्दमम्॥ 2-7-8(11573)
तथा देवर्षयः सर्वे पार्ते शक्रमुपासते।
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः॥ 2-7-9(11574)
तेजस्विनः सोमसुतो विशोका विगतज्वराः।
पराशरः पर्वतश्च तथा सावर्णिगालवौ॥ 2-7-10(11575)
`एकतश्च द्वितश्चैव त्रितश्चैव महामतिः'।
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः।
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः॥ 2-7-11(11576)
पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः।
उद्दालकः श्वेतकेतुस्ताण्डो भाण्डायनिस्तथा॥ 2-7-12(11577)
हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः॥
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः॥ 2-7-13(11578)
वातस्कन्धो विशाखश्च विधाता काल एव च।
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः॥ 2-7-14(11579)
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः।
ईशानं सर्वलोकस्य वज्रिणं समुपासते॥ 2-7-15(11580)
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः।
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः॥ 2-7-16(11581)
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः।
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः॥ 2-7-17(11582)
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः।
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः॥ 2-7-18(11583)
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्।
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती॥ 2-7-19(11584)
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव।
जलवाहास्तथा मेघा वायवः स्तनयित्नवः॥ 2-7-20(11585)
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः।
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा॥ 2-7-21(11586)
भगो विश्वे साध्याश्च गुरुः शुक्रस्तथैव च।
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा॥ 2-7-22(11587)
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत।
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते॥ 2-7-23(11588)
तथैवाप्सरसो राजन् `रम्भोर्वश्यथ मेनका।
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः॥ 2-7-24(11589)
विद्याधराश्च राजेन्द्र' गन्धर्वाश्च मनोरमाः।
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि॥ 2-7-25(11590)
रमयन्ति स्म नृपते देवराजं शतक्रतुम्।
स्तुतिभिर्मङ्गलैश्चैव वस्तुवन्तः कर्मभिस्तथा॥ 2-7-26(11591)
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्।
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा॥ 2-7-27(11592)
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः।
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे॥ 2-7-28(11593)
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै॥
एते चान्ये च बहवो महात्मानो यतव्रताः॥ 2-7-29(11594)
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः।
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा॥ 2-7-30(11595)
एषा सभा मया राजन्दृष्टा पुष्करमालिनी।
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु॥ ॥ 2-7-31(11596)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तमोऽध्यायः॥ 7॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-7-13 पाराशर्यः कपिष्ठल इति घ. पाठः॥ 2-7-21 ब्रह्मणोङ्गात्प्रसूतोऽग्निरङ्गिरा इति विश्रुतः। दक्षिणाग्निर्गार्हपत्या हवनीयाविति त्रयी। निर्मन्थ्यो वैद्युतः शूरः संवर्तो लौकिकस्तथा। 2-7-31 पुष्करमालिनी नामतः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|